Episodios

  • सद्यः प्रक्षालकवृत्तिः
    Jul 5 2025

    कश्चन दैवभक्तः महाराजः तस्य परमसुन्दरीं भक्तिमतीं च पुत्रीं भगवति यस्य सम्पूर्णः विश्वासः भवति तस्मै दातुम् इच्छति । कदाचित् सुप्रसन्नं, कौपीनधारिणं, भगवतः पुरतः स्थित्वा ध्यायन्तं च तरुणं दृष्ट्वा कांश्चन प्रश्नान् राजा अपृच्छत् । तस्य उत्तराणि श्रुत्वा सानन्दं तेन सह पुत्र्याः विवाहं कारितवान् । गृहगमनसमये कस्यचित् वृक्षस्य कोटरे स्थापितं जलं रोटिकाखण्डं च तरुणः पत्न्यै अयच्छत् । पतिः भगवति विश्वासम् अकृत्वा श्वः खादनार्थम् इति रोटिकां सञ्चितवान् इति ज्ञात्वा पत्नी रोदनम् आरब्धवती । लज्जितः तरुणः रोटिकां अक्षिपत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A devout king wished to marry his beautiful and pious daughter to someone who had complete faith in God. One day, he saw a young man, serene and wearing simple attire, meditating before the deity. The king asked him some questions, and upon hearing his answers, he joyfully arranged his daughter's marriage with him. On their way home, the young man offered his wife some water and a piece of bread he had stored in the hollow of a tree. Realizing that her husband had kept the bread for the next day's meal rather than trusting God to provide, the wife began to weep. Ashamed, the young man discarded the bread, understanding the depth of true faith.

    Más Menos
    6 m
  • यद्यदाचरति श्रेष्ठः.....
    Jul 4 2025

    कश्चन वृद्धः प्रतिदिनं प्रवचनं श्रोतुं गृहस्य समीपस्थम् आश्रमं गच्छति स्म । गच्छता कालेन तस्य श्रवणशक्तिः न्यूना जाता चेदपि सः प्रवचनं श्रोतुं गच्छति स्म । एकदा प्रवचनकारेण कारणे पृष्टे वृद्धः वदति 'अहं परिवारस्य प्रमुखः अस्मि । अहम् अत्र आगच्छामि इति ज्ञात्वा मम परिवारजनाः अपि आगच्छन्ति । तेन तेषां हृदये भगवतः विषये श्रद्धा जीविता तिष्ठति । अतः श्रोतुम् अशक्तः अपि अहम् अत्र आगच्छामि' इति । प्रवचनकारः 'यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः' इति गीतायाः वाक्यं स्मृतवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    An elderly man would go to a nearby ashram every day to listen to discourses. Over time, his hearing ability declined, yet he continued attending the discourses. One day, the speaker asked him the reason for his persistence. The old man replied, "I am the head of my family. Seeing me come here, my family members also follow. This keeps their faith in God alive in their hearts. Hence, even though I am unable to hear, I still come." The speaker was reminded of the verse from the Bhagavad Gita: "Whatever a great person does, others follow in their footsteps."

    Más Menos
    3 m
  • कुटीरपरिवर्तनम्
    Jul 3 2025

    कस्यचन वणिजः गृहम् उभयतः द्वौ लोहकारौ कुटीरं निर्माय प्रतिदिनं प्रातः आरभ्य रात्रिपर्यन्तं कार्यं कुरुतः । आदिनं कर्कशं लोहकुट्टनशब्दं सोढुम् अशक्नुवन् वणिक् एकम् उपायं करोति । परेद्यवि ताभ्यां लोहकाराभ्याम् अन्यकुटीरगमनार्थं सहस्रं रूप्यकाणि अयच्छत् । उभौ अपि अङ्गीकृतवन्तौ । किन्तु अग्रिमदिवसे पुनः कुट्टनशब्दं श्रुत्वा यदा वणीक् तौ पृच्छति तदा तौ वदतः 'आवां कुटीरपरिवर्तनं कृतवन्तौ । वामभागे कुटीरे स्थितः अहम् इदानीं दक्षिणभागे निवसामि । सः इदानीं वामभागे निवसति' इति । एतत् उत्तरं श्रुत्वा वणिक् मूकः एव अभवत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    The story humorously narrates the struggle of a merchant who had two blacksmiths working in huts on either side of his house, creating a constant racket from dawn till night. Unable to tolerate the noise, he offered each blacksmith a thousand rupees to move to a different hut. Both agreed, but the next day, the merchant heard the same clanging noise. When he questioned them, they explained, "We have moved to a different hut. I now live in the hut on the right, and he lives in the hut on the left". Hearing this, the merchant was left speechless.

    Más Menos
    3 m
  • यादृशं मनः तादृशः कायः
    Jun 30 2025

    कदाचित् कश्चन काव्यकुशलः जैनाचार्यः किञ्चन महाकाव्यं रचयितुम् आरब्धवान् । कस्मिंश्चित् सर्गे जलधेः वर्णनं कर्तुम् आरभते । जलधेः विषयमेव सर्वदापि सः चिन्तयन् भवति । तन्मधे जलोदररोगेण ग्रस्तः भवति । सर्वं वृत्तान्तं ज्ञात्वा वैद्यः वदति 'जलधेः वर्णनं समाप्य मरुभूमेः वर्णनं करोतु' इति । जैनाचार्यः विस्मितः सन् अपि वैद्यस्य सूचनां श्रद्धया अपालयत् । जलोदररोगः शान्तः भवति । मनसि यादृशः विचारः क्रियते तादृशः एव प्रभावः शरीरे अपि भवति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A Jain poet began composing an epic poem. While describing the ocean in one section, his constant thoughts about it led to water-related illness. A physician, upon learning this, advised him to complete the ocean description and shift focus to the desert. Trusting the physician’s advice, the poet complied and his ailment subsided. The story highlights how thoughts in the mind can directly influence the body.

    Más Menos
    3 m
  • उपदेशाचरणयोः अन्तरम्
    Jun 29 2025

    कदाचित् कश्चन बौद्धभिक्षुः कम्बोजराज्यम् आगत्य महाराजं तिङ्गभिङ्गं प्रति तस्य राज्यस्य राजपुरोहितः भवितुम् इच्छामि इति कामनां प्राकटयत् । किन्तु राजा 'पुनरपि एकवारं धर्मग्रन्थानाम् आवृत्तिं कृत्वा अगच्छेत्' इति अवदत् । कुपितः सन् सः भिक्षुः किमपि अनुक्त्वा धर्मग्रन्थानाम् अध्ययनम् एकवर्षं यावत् कृत्वा पुनरागच्छति । किन्तु राजा 'एकान्तवासम् अनुभवन् पुनरपि धर्मग्रन्थानां पारायणं करोति चेत् उत्तमं भवति' इति वदति । नागरिकप्रपञ्चस्य समग्रकोलाहलतः दूरे नदीतीरे प्रार्थनाकरणेन भिक्षुणा आनन्दः प्राप्तः । यदा राजा स्वयमेव गत्वा भिक्षुम् आह्वयति तावता भिक्षोः कामना संपूर्णतया अपगता आसीत् । उपदेशेन अहङ्कारः भवति किन्तु आचरणेन आनन्दः भवति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A Buddhist monk approaches King Tingabhanga of Kamboja, expressing a desire to become the royal priest. The king instructs him to study religious scriptures once more before returning. The monk, annoyed but determined, spends a year studying and returns, only to be asked to retreat in solitude and reread the texts. The monk complies and, through prayer by a river far from worldly chaos, finds deep joy. When the king invites him back, the monk realizes his desire has faded, discovering that teaching brings pride, but practicing virtue leads to true happiness.

    Más Menos
    5 m
  • सर्वश्रेष्ठः पुण्यात्मा
    Jun 28 2025

    कदाचित् साक्षात् भगवान् विश्वनाथः मन्दिरस्य पूजकस्य स्वप्नम् आगत्य 'अहं सर्वश्रेष्ठाय पुण्यात्मने कमपि पुरस्कारं दातुम् इच्छामि' इति अवदत् । अनन्तरदिने पूजकः सर्वत्र घोषम् अकरोत् । ततः विभिन्नेषु प्रदेशेषु विद्वांसः, धर्मात्मानः, दातारः, साधकाः च मन्दिरं समागताः । पूजनसमये भगवतः मूर्तेः पुरतः एकं स्वर्णपात्रम् आगतम् । परीक्षार्थं सः पूजकः येषां हस्ते स्वर्णपात्रं ददाति तेषां हस्तं प्राप्य तत्क्षणं मृत्तिकामयं भूत्वा स्वप्रकाशरहितं भवति । कदाचित् कुष्ठरोगपीडितं जनं सेवित्वा वृद्धकृषकः आगतवान् । पूजकः तस्य हस्ते स्वर्णपात्रं स्थापितवान् । तस्य हस्ते पात्रस्य प्रकाशः द्विगुणितः जातः । तदा पूजकः ज्ञापितवान् यत् यः निःस्वार्थः, दयायुक्तः, दाता च भवति, सः एव सर्वश्रेष्ठः इति । भगवता दत्तं स्वर्णपात्रं तस्मै वृद्धकृषकाय दत्तवान् च ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Lord Vishwanath appeared to the temple priest in a dream, expressing a desire to reward the most virtuous soul. The priest spread the announcement, attracting scholars, donors, and spiritual seekers. During the worship, a golden vessel appeared before the deity but turned to mud in everyone’s hands. When a humble, elderly farmer—who had served a person suffering from leprosy—held it, the vessel’s glow doubled. The priest recognized that true greatness lies in selflessness, compassion, and generosity, and awarded the golden vessel to the farmer.

    Más Menos
    8 m