Episodios

  • द्वैमातुरः
    May 23 2025

    आसीत् कश्चन वरेण्यनामकः राजा यः धर्मानुयायी प्रजावत्सलः च । तस्य पतिव्रता धर्मपरायणा च पत्नी पुष्पका कदाचित् कञ्चित् विलक्षणं शिशुं प्रसूतवती । चत्वारः हस्ताः, मुखे दन्तः च आसन् तस्य । विलक्षणशिशोः जननं ज्ञातवता राज्ञा शिशुं सरोवरे त्यक्तुम् आदिश्यते । सरोवरस्य समीपे आसीत् पार्श्वमुनेः आश्रमः । प्रतिदिनं सरोवरे स्नानं कर्तुम् आगतवता मुनिना एषः शिशुः दृष्टः । परमात्मास्वरूपः अयं शिशुः इति मत्वा तम् आश्रमं प्रति अनयत् । तस्य पत्नी दीपवत्सला नितरां सन्तुष्टा जाता । एवं जन्मदात्री पोषयित्री चेति उभे मातरौ स्तः इत्यतः सः बालः द्वैमातुरः इति ख्यातः जातः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    King Varenya was virtuous and cared for his people. His wife, Pushpaka, gave birth to a unique child with four arms and a tusk. Disturbed by this, the king ordered the child to be abandoned in a lake. Nearby, Sage Parshva lived in a hermitage and often visited the lake. He found the child, saw its divine nature, and brought it to his hermitage. His wife, Deepavatsala, happily took the child in. With two mothers—one who gave birth. and the other who nurtured—the child was named "Dvimaatura," meaning "the one with two mothers.

    Más Menos
    3 m
  • सुगन्धमयता
    May 22 2025

    शबरीं द्रष्टुम् आगवन्तं रामं आश्रमं परितः विद्यमानानां सुगन्धपूर्णानां पुष्पाणां कथां वदति सा - 'पूर्वम् आश्रमपरिसरे मातङ्गः नाम महर्षिः निवसति स्म । कदाचित् महर्षिः अचिन्तयत् यत् वृष्टेः आरम्भतः पूर्वं यदि काष्ठानि न सङ्गृह्येरन् तर्हि वर्षाकाले महत् कष्टम् अनुभोक्तव्यं भवेत् इति । शिष्येषु केनापि अवधानं न दत्तम् इति कारणतः स्वयं महर्षिः परशुं गृहीत्वा काष्ठसङ्ग्रहाय आश्रमात् निर्गतवान् । तं सर्वे शिष्याः अनुसृतवन्तः । सूर्यास्तसमये आगवतां शिष्याणां शरीरतः यत्र यत्र स्वेदबिन्दवः अपतन् तत्र सर्वत्र सुन्दाराणि पुष्पाणि दृष्टानि' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Shabari speaks to Rama, who has come to see her, about the fragrant flowers present around the ashram - 'Once, in the vicinity of the ashram, there lived a great sage named Matanga. One day, the sage thought that if the wood was not collected before the onset of rain, it would be very difficult during the rainy season. Since none of the disciples paid attention to it, the sage himself took an axe and went out of the ashram to gather the wood. All the disciples followed him. By the time they returned at sunset, wherever the sweat drops from the bodies of the disciples fell, beautiful flowers were seen blooming there’.

    Más Menos
    4 m
  • वाणिज्यकौशलम्
    May 21 2025

    कस्याञ्चित् महावाणिज्यसंस्थायां विक्रेतृविभागस्य निमित्तम् अभ्यर्थिनां सन्दर्शनं प्रचलत् आसीत् । अनुभवराहित्येऽपि कस्यचन तरुणस्य सरलतां दृष्ट्वा तम् उद्योगे न्ययोजयत् प्रबन्धकः । 'विक्रयणे विशेषास्था दर्शनीया, प्रगतिः साधनीया च भवता' इति अबोधयत् सः । कञ्चित् कालानन्तरं ज्ञातं कथं सः तरुणः स्वस्य कौशलेन वाणिज्यसामर्थ्येन च संस्थायै दशलक्षरूप्यकमितः लाभः दापितः इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In a large commercial organization, interviews were being conducted for the sales department. Despite his lack of experience, a young man's simplicity impressed the manager, who decided to hire him. The manager advised him, saying, "You should show a special interest in sales and work towards progress." After some time, it became known how the young man, through his skill and commercial wisdom, brought a profit of ten lakh rupees to the organization.

    Más Menos
    4 m
  • धर्मस्य सारः
    May 20 2025

    पूर्वं कश्चन राजुकुमारः सकलज्ञानसम्मन्नः बलवान् अधीतराजोचितविद्यः च असीत् । किन्तु धर्मलक्षणं तेन न ज्ञातम् । सः पण्डितान् अपृच्छत् । एकैकः एकैकप्रकारेण धर्मलक्षणं विवृतवान् येन राजकुमारस्य भ्रमः जातः । अन्ते सः कञ्चित् संन्यासिनं दृष्ट्वा स्वस्य समस्यां निवेदितवान् । संन्यासिना कारितायां क्रीडायां राजकुमारेण प्रतिस्पर्धिनि गौरवप्रधानं, मृदु व्यवहारः, दयापरार्थं, प्राणत्यागाय सज्जता इत्यादयः दर्शितः । एते एव धर्मस्य साराः इति सन्यसिनः कथनात् सन्तुष्टः राजकुमारः संन्यासिनं कृतज्ञतापूर्वकं प्रणम्य ततः निर्गतवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, there was a prince who was endowed with all kinds of knowledge, strong and well-versed in the sciences suitable for a king. However, he did not understand the essence of dharma (righteousness). He asked the scholars. Each one of them explained dharma in different ways, which confused the prince. Finally, he saw a Sanyasi and expressed his problem. In a game arranged by the Sanyasi, the prince displayed qualities such as prioritizing honor over competition, gentle behavior, compassion for others, and readiness to sacrifice his life. The Sanyasi then explained that these very qualities are the essence of dharma. Satisfied with the Sanyasi's explanation, the prince thanked him with gratitude and departed.

    Más Menos
    4 m
  • कर्मफलं कर्तारम् उपैति
    May 19 2025

    'यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पुरा कृतं कर्म कर्तारमनुगच्छति ।। 'प्रियम् अप्रियं वा कर्मफलं कर्तारमेव उपैति' इति वचनं अस्माभिः ज्ञातमेव । शास्त्रकुशलोऽपि कश्चन पण्डितः कथं पापं करोति? यदा कर्मफलं पापपुरुषरूपं धृत्वा पण्डितं ग्रहीतुम् आगतवान् तदा तस्य निवारणाय कम् उपायं करोति ? परन्तु अन्ते कर्मफलस्य भोक्ता स्वयमेव अस्ति इति कथं पण्डितेन विदितम् इति ज्ञातुम् इमां स्वारस्यकरीं कथां शृण्मः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Just as a calf finds its mother among a thousand cows, so does the karma of the past find its doer. The saying 'One reaps the fruits of their actions, whether pleasant or unpleasant' is well-known to us. How does even a learned scholar commit a sin? When the fruits of karma, assuming the form of a sinful person, come to capture the scholar, what means does he employ to prevent it? In the end, how does the scholar realize that he himself must bear the fruits of his karma? Let us hear this intriguing story to understand".

    Más Menos
    4 m
  • भक्तराजः प्रह्लादः
    May 18 2025

    त्रिषु लोकेषु देवताभ्योऽपि महान् पूजनीयः प्रह्लादः इन्द्रेण न असह्यत । सः ब्राह्मणवेषं धृत्वा प्रह्लादनिकटम् आगत्य अकथयत् 'भवतः इहलौकिकस्य पारलौकिकस्य च कल्याणमार्गस्य तत्त्वम् उपदिशतु' इति । तदङ्गीकृत्य प्रह्लादः ज्ञानतत्त्वं बोधयित्वा अन्ते' यद् इष्यते तद् याच्यताम्' इति यदा अवदत् तदा कपटवेषधारी इन्द्रः 'भवतः शीलं ग्रहीतव्यम् इति मम इच्छा' इति प्रत्यवदत् । प्रह्लादः तस्य वचनं पूरितवान् । तदनन्तरं प्रह्लादः एतत् भगवतः आशीर्वादं मन्यमानः नैमिषारण्यं गत्वा भगवतः ध्यानं कुर्वन् आनन्देन दिनानि अयापयत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Prahlada, who is greater and more venerable than the gods, was unbearable to Indra. Disguised as a Brahmin, Indra approached Prahlada and asked, "Please teach me the essence of the path to welfare in this world and the next". Accepting this request, Prahlada imparted the knowledge of the truth. At the end, when Prahlada asked Indra to request whatever he desired, the deceitful Indra replied, "It is my wish to imbibe your character". Prahlada fulfilled his request. Thereafter, considering this as a blessing from the Lord, Prahlada went to Naimisharanya, meditated on the Lord, and spent his days in bliss.

    Más Menos
    4 m
  • भगवतः अस्तित्वम्
    May 17 2025

    कदाचित् कश्चन तरुणः रमणमहर्षिम् उपसर्प्य भगवतः अस्तित्वस्य विषये सन्देहं प्रकटयति । सन्देहस्य कारणे पृष्टे 'यावत् ईश्वरः दृष्टिगोचरः न भवेत् तावत् तस्य अस्तित्वस्य विषये श्रद्धा अपि न भवेत्' इति । तदा महर्षिः मन्दहासपूर्वकम् अवदत् 'अहं कञ्चित् प्रश्नं पृच्छामि । किं भवति बुद्धिमत्ता अस्ति?’ । 'तत्र नास्ति एव सन्देहः' इति यदा तरुणः वदति तदा महर्षिः वदति 'किन्तु सा न दृश्यते मया । तस्मात् कथं निर्णेतुं शक्नुयाम?’ इति । एतस्मात् कथनात् भगवतः विषये अपि एवमेव चिन्तनीयम् इति ज्ञात्वा भगवतः अस्तित्वस्य विषये अपगतसन्देहः अभवत् तरुणः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, a young man approached Ramana Maharshi and expressed doubt about the existence of God. When asked the reason for his doubt, he said, ‘As long as God is not visible, there can be no faith in His existence’. Then Maharshi, with a gentle smile, said, ‘Let me ask you a question. Does intelligence exist within you?’ When the young man replied, ‘There is no doubt about it’, Maharshi said, ‘But I do not see it. How can I determine its existence?’ From this statement, the young man understood that he should think in a similar manner regarding the existence of God. Hence, his doubt about God's existence vanished.

    Más Menos
    3 m
  • अधीरता न शोभायै
    May 16 2025

    कदाचित् 'पञ्जाबकेसरी' इति ख्यातस्य राज्ञः रणजितसिंहस्य राज्यस्य सीमाप्रदेशं केचन लुण्ठाकाः पेशावरनगरस्य लुण्ठनं कुर्वन्तः सन्ति इति गुप्तचराः वार्ताम् आनीतवन्तः । तां वार्तां श्रुत्वा यदा राजा सेनापतिम् आनाय्य अपृच्छत् तदा त्रिगुणितप्रमाणेन स्थितान् तान् लुण्ठाकान् अस्मत्सैनिकाः कथं वा अवरोधयेयुः इति अवदत् सेनापतिः । किमपि उनुक्त्वा अनुक्षणं राजा १५० सैनिकैः पेशावरं प्राप्य शत्रुसंहारे उदुक्तः । तस्य शौर्यं खड्गप्रहारकौशलं च दृष्ट्वा नितरां भीताः लुण्ठाकाः अचिरात् एव ततः पलायितवन्तः । ततः सेनापतिः सङ्कल्पितवान् यत् इतः परं मया अधीरता न अश्रीयते इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, in the kingdom of Maharaja Ranjit Singh, also known as the "Lion of Punjab," some spies brought news that a group of looters was plundering the city of Peshawar. When the king summoned his general and asked how the looters could enter the city, the general replied with concern, mentioning that the looters were three times in number compared to their soldiers. Without saying a word, the king immediately set off for Peshawar with 150 soldiers to annihilate the enemy. Witnessing his bravery and swordsmanship, the terrified looters soon fled from the city. From that moment on, the general resolved that he would never again lose his composure.

    Más Menos
    3 m
adbl_web_global_use_to_activate_T1_webcro805_stickypopup